॥ श्री विन्ध्यवासिनी (विन्ध्येश्वरी) स्तोत्रम् ॥
निशुम्भ-शुम्भ-मर्दिनीं, प्रचण्ड-मुण्ड-खण्डिनीम् ।
वने रणे प्रकाशिनीं भजामि विन्ध्यवासिनीम् ॥
त्रिशूल-रत्न-धारिणीं, धरा-विघात-हारिणीम् ।
गृहे-गृहे निवासिनीं भजामि विन्ध्यवासिनीम् ॥
दरिद्रदुःख-हारिणीं, सतां विभूतिकारिणीम् ।
वियोग-शोक-हारिणीं, भजामि विन्ध्यवासिनीम् ॥
लसत्सुलोल-लोचनां, लतां सदावरप्रदाम् ।
कपाल-शूल-धारिणीं, भजामि विन्ध्यवासिनीम् ॥
करे मुदा गदाधरां, शिवां शिवप्रदायिनीम् ।
वरा-वराननां शुभां भजामि विन्ध्यवासिनीम् ॥
ऋषिन्द्रजामिनप्रदां, त्रिधास्यरूप-धारिणीम् ।
जले स्थले निवासिनीं, भजामि विन्ध्यवासिनीम् ॥
विशिष्ट-सृष्टि-कारिणीं, विशाल रूप-धारिणीम् ।
महोदरां विशालिनीं, भजामि विन्ध्यवासिनीम् ॥
पुरन्दरादि-सेवितां, मुरादिवंशखण्डिनीम्
विशुद्ध-बुद्धिकारिणीं, भजामि विन्ध्यवासिनीम् ॥
इति श्री विन्ध्यवासिनी स्तोत्रम् ।