व्याप्तचराचरभावविशेषं चिन्मयमेकमनन्तमनादिम्।
भैरवनाथमनाथशरण्यं त्वन्मयचित्ततया हृदि वन्दे॥१॥
त्वन्मयमेतदशेषमिदानीं भाति मम त्वदनुग्रहशक्त्या।
त्वं च महेश सदैव ममात्मा स्वात्ममयं मम तेन समस्तम्॥२॥
स्वात्मनि विश्वगते त्वयि नाथे तेन न संसृतिभीतिकथास्ति।
सत्स्वपि दुर्धरदुःखविमोहत्रासविधायिषु कर्मगणेषु॥३॥
अन्तक मां प्रति मा दृशमेनां क्रोधकरालतमां विनिधेहि।
शङ्करसेवनचिन्तनधीरो भीषणभैरवशक्तिमयोऽस्मि॥४॥
इत्थमुपोढभवन्मयसंविद्दीधितिदारितभूरितमिस्रः।
मृत्युयमान्तककर्मपिशाचैर्नाथ नमोऽस्तु न जातु बिभेमि॥५॥
प्रोदितसत्यविबोधमरीचिः प्रेक्षितविश्वपदार्थसतत्त्वः।
भावपरामृतनिर्भरपूर्णे त्वय्यहमात्मनि निर्वृतिमेमि॥६॥
मानसगोचरमेति यदैव क्लेशदशा तनुतापविधात्री।
नाथ तदैव मम त्वदभेदस्तोत्रपरामृतवृष्टिरुदेति ॥७॥
शङ्कर सत्यमिदं व्रतदानस्नानतपो भवतापविदारि।
तावकशास्त्रपरामृतचिन्ता स्यन्दति चेतसि निर्वृतिधाराम्॥८॥
नृत्यति गायति हृष्यति गाढं संविदियं मम भैरवनाथ।
त्वां प्रियमाप्य सुदर्शनमेकं दुर्लभमन्यजनैः समयज्ञम्॥९॥
वसुरसपौषे कृष्णदशम्यामभिनवगुप्तः स्तवमिममकरोत्।
येन विभुर्भवमरुसन्तापं शमयति झटिति जनस्य दयालुः॥१०॥